Daily Prayers
All Deities

Night Prayer (Shubh Ratri Prarthana)

18px
॥ शुभ रात्री प्रार्थना ॥ ॥ करचरणकृतं वा ॥ करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम्। विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो॥ ॥ क्षमा प्रार्थना ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव। त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव॥ ॥ शांति मंत्र ॥ ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥ ॐ शान्तिः शान्तिः शान्तिः॥ ॥ रात्री सुक्त (प्रमुख श्लोक) ॥ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः। विश्वा अधि श्रियोऽधित॥ ॥ विष्णु स्मरण ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्। विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्। वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥ ॥ राम रक्षा ॥ रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः। रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥ ॥ शिव स्तुती ॥ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्। सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि॥ ॥ दैनंदिन पाप क्षमा ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर॥ ॥ सर्व मंगल ॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥ ॥ शयन मंत्र ॥ ॐ अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः। रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम्। शयने यः स्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति॥

Benefits

Benefits of Night Prayers: • Forgiveness of daily sins • Peaceful and deep sleep • Bad dreams are dispelled • Mental peace • Spiritual progress • Recite before sleeping
#night#prayer#daily#shayan#kshama#shanti#nitya#sleep